कक्षा 10 संस्कृत — अनुपयुक्त-व्याकरणम् प्रश्नावली | प्रश्न 5 से 11
कक्षा 10 संस्कृत के अनुपयुक्त-व्याकरणम् के प्रश्न 5 से 11 तक—सन्धि, समास, प्रकृति-प्रत्यय, संवादपूर्ति, कालबोधक शब्द, अव्यय तथा अशुद्धि-संशोधन पर आधारित प्रश्न।
By SanskritLearn
कक्षा — दशमी अङ्का--25 खण्डः ‘ग’ अनुपयुक्त-व्याकरणम्
- अधोलिखितवाक्येषु रेखाङ्कितपदेषु सन्धिं सन्धिविच्छेदं वा कुरुत–
(केवलं प्रश्नचतुष्टयम्) 1 × 4 = 4
(i) जीवाः सर्वेऽत्र मोदन्ताम्।
(ii) प्रजहि ह्येनं ज्ञानविज्ञाननाशनम्।
(iii) कश्चिद् उदण्डः बालकः उवाच।
(iv) क्रोध एषः रजोगुणसमुद्भवः।
(v) कथमिव पश्येयं चक्षु: + हीनः।
- अधोलिखितवाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः चित्वा लिखत–
(केवलं प्रश्नचतुष्टयम्) 1 × 4 = 4
(i) हिमाद्रितुङ्गशृङ्गैः सुशोभिता सूर्योदयभूमिः इयम्।
(क) सूर्यस्य भूमिः (ख) सूर्योदयस्य भूमिः (ग) सूर्योदयेन भूमिः (घ) सूर्योदयः भूमिः
(ii) वानराणां यूथपः सर्वान् वानरान् अवदत्।
(क) यूथस्य पतिः (ख) यूथं पाति इति (ग) यूथं पात इति (घ) यूथस्य पः
(iii) सर्वेषामपि महत्त्वं विद्यते समयम् अनतिक्रम्य।
(क) समयम् यथा (ख) यथासमयम् (ग) समयानुसारम् (घ) यथासमयः
(iv) सः सकरुणम् उच्चैः अक्रन्दत्।
(क) करुणया सह (ख) सह करुणम् (ग) करुणा सह (घ) सा करुणा
(v) ततः प्रविशन्ति व्यासनारदौ।
(क) व्यासः नारदः (ख) व्यासौ नारदी च (ग) व्यासः नारदौ च (घ) व्यासः च नारदः च
- अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्य विभज्य वा उचितम् उत्तरं विकल्पेभ्यः चित्वा लिखत–
(केवलं प्रश्नचतुष्टयम्) 1 × 4 = 4
(i) विपुला च अत्र वनसम्पदा।
(क) विपुलः + टाप् (ख) विपुल + टाप् (ग) विपुल + ङीप् (घ) विपुल + इक्
(ii) विद्वांस एव चक्षुष्मन्तः प्रकीर्तिताः।
(क) चक्षुस् + मतुप् (ख) चक्षुः + मतुप् (ग) चक्षुस+ मतुप् (घ) चक्षुष् + मतुप्
(iii) ईटा हि यस्यास्ति पुर+ ङीप् प्रधाना।
(क) पुरा (ख) पुरः (ग) पूरी (घ) पूर्णा
(iv) अस्मिन् अवसरे समाज + ठक् कार्यं क्रियते।
(क) सामाजिकम् (ख) सामाजिकः (ग) सामाजिकी (घ) सामाजिकाः
(v) अवक्रता यथा वित्ते तथा वाचि भवेत्।
(क) अवक्र + टाप् (ख) अवक्र + तल् (ग) अवक्र + ङीप् (घ) अवक्र + शतृ
- वाक्यानुसारम् उचितपदैः रिक्तस्थानानि पूरयित्वा अधोलिखितं संवादं पुनः लिखत–
(केवलं प्रश्नत्रयम्) 1 × 3 = 3
आदित्यः— वैभव! इदानीं त्वया किं क्रियते?
वैभवः— आदित्य! अधुना तु मया (i) .................... क्रियते। का वार्ता?
आदित्यः— नास्ति विशेषः। (ii) .................... क्रीडितुं बहिः गम्यते, त्वमपि आगच्छ।
वैभवः— न खलु! मम परीक्षा भविष्यति अतः अधुना (iii) .................... सम्पूर्णदिनं पठामि।
आदित्यः— अस्तु, किन्तु त्वं किं पठसि?
वैभवः— गणितविषयस्य परीक्षा भविष्यति अतः मया गणितविषयः (iv) ....................।
मञ्जूषा— अस्माभिः, पठ्यते, अध्ययनम्, अहम्
- कालबोधकशब्दैः अधोलिखित-दिनचर्यां पूरयत–
(केवलं प्रश्नत्रयम्) 1 × 3 = 3
(i) सौम्या प्रातः .................... 4:00 वादने उतिष्ठति।
(ii) ततः सा .................... 05:15 वादने योगाभ्यासं करोति।
(iii) तदनन्तरं सा .................... 7:45 वादने विद्यालयं गच्छति।
(iv) .................... 2:30 वादने आगत्य सा पुनः भोजनं करोति।
- मञ्जूषायां प्रदत्तैः उचितैः अव्ययपदैः अधोलिखितवाक्येषु रिक्तस्थानानि पूरयत–
(केवलं प्रश्नचतुष्टयम्) 1 × 4 = 4
(i) प्राणत्राणाय अश्वाः .................... अधावन्।
(ii) यूयं सर्वे .................... मम प्रियाः।
(iii) अभ्यासेन तु कौन्तेय वैराग्येण .................... गृह्यते।
(iv) अर्जुन! त्वम् .................... मुञ्च ब्रह्मास्त्रम् एतत् निवारयितुम्।
(v) .................... विषादं त्यक्त्वा उद्यमः क्रियताम्।
मञ्जूषा— इदानीम्, अपि, इतस्ततः, एव, च
- अधोलिखितवाक्येषु रेखाङ्कित-अशुद्धपदाय उचितपदं चित्वा वाक्यानि पुनः लिखत–
(केवलं प्रश्नत्रयम्) 1 × 3 = 3
(i) प्रबुद्धौ ते दम्पती आश्चर्येण अतिष्ठताम्।
(क) सा (ख) तौ (ग) ताः (घ) तानि
(ii) कुमार्गम् आश्रितस्य मम कीदृशः इयं क्लेशपरम्परा।
(क) कीदृशम् (ख) कीदृश्यः (ग) कीदृशाः (घ) कीदृशी
(iii) त्वं नर्तनात् अन्यत् किम् अपरं जानाति?
(क) जानन्ति (ख) जानाति (ग) जानामि (घ) जानासि
(iv) राजा वैद्यान् आहूय पृच्छत
(क) अपृच्छत् (ख) प्रक्ष्यन्ति (ग) अपृच्छः (घ) अपृच्छन्