Skip to content
All articles
· 2 min read

Class 10 Sanskrit Board Exam 2025-26 | प्रश्न 15–18 अभ्यास प्रश्न

कक्षा 10 संस्कृत बोर्ड परीक्षा 2025–26 के प्रश्न 15 से 18 तक के महत्वपूर्ण अभ्यास प्रश्न। इसमें प्रश्ननिर्माणम्, अन्वयः, भावार्थः, प्रसङ्गानुकूलम् अर्थचयनम् तथा पाठाधारित कथापूर्ति से संबंधित प्रश्न दिए गए हैं।

By SanskritLearn

कक्षा 10 संस्कृत — प्रश्न 15 से 18

बोर्ड परीक्षा 2025–26 | प्रश्नपत्र अभ्यास

  1. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।

(केवलं पञ्चप्रश्नाः) 5×1=5

(i) शक्रः नेत्रहीनयाचकस्य रूपं धारयति।

(ii) मेषः अर्धज्वलितकाष्ठेन ताडितः।

(iii) मनः चञ्चलं भवति।

(iv) न जानाति भवान् द्रौणेः चपलां प्रकृतिम्।

(v) राजा याचकेभ्यः दानं ददाति।

(vi) आचार्यः पुत्रं सावधानम् अकरोत्।

  1. मञ्जूषातः समुचितपदानि चित्वा अधोलिखित-श्लोकस्य अन्वयं पूरयित्वा पुनः लिखत।

4 × ½ = 2

नास्ति विद्यासमं चक्षुः नास्ति सत्यसमं तपः। नास्ति रागसमं दुःखं नास्ति त्यागसमं सुखम्॥

अन्वयः—

(i) __________ चक्षुः न अस्ति, सत्यसमं तपः न (ii) __________, रागसमं (iii) __________ न अस्ति, त्यागसमं सुखं (iv) __________ अस्ति।

मञ्जूषा— अस्ति, न, दुःखम्, विद्यासमम्।

अथवा श्लोकस्य भावार्थं मञ्जूषायाः सहायतया रिक्तस्थानानि पूरयन्तु।

4 × ½ = 2

चञ्चलं हि मनः कृष्ण! प्रमाथि बलवद्दृढम्। तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्॥

भावार्थः—

श्रीकृष्णस्य वार्तां श्रुत्वा पुनः अर्जुनः वदति— हे (i) __________ ! मनः अतीव (ii) __________, शरीरस्य मथनकर्ता अतीव बलवान् अपि च अस्ति। अतः तस्य (iii) __________ वायोः इव (iv) __________ मन्ये।

मञ्जूषा— चञ्चलम्, नियन्त्रणम्, कठिनम्, कृष्ण।

  1. अधोलिखितवाक्येषु रेखाङ्कितपदानां प्रसङ्गानुकूलम् उचितार्थं चित्वा लिखत।

(केवलं प्रश्नचतुष्टयम्) 4 × 1 = 4

(i) अस्माकं ऐक्यं तु जगत्प्रसिद्धम्।

(A) एकता (B) एकम् (C) शत्रुता (D) सरलता

(ii) बोधिसत्त्वम् अमात्याः अवदन्।

(A) मातरः (B) मन्त्रिणः (C) राजा (D) प्रजाः

(iii) पादं शिष्यः स्वमेधया।

(A) पादपः (B) वृक्षः (C) चरणम् (D) चतुर्थांशम्

(iv) नास्ति विद्यासमं चक्षुः।

(A) छत्रम् (B) नेत्रम् (C) पुस्तकम् (D) शिक्षणम्

(v) अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।

(A) अर्जुन (B) कृष्ण (C) क्रोध (D) मनः

  1. अधोलिखितां कथां मञ्जूषापदैः रिक्तस्थानानि पूरयित्वा पुनः लिखत।

8 × ½ = 4

भूपतेः (i) __________ पुत्राः वानरान् भोज्यपदार्थैः पुष्टि नयन्ति स्म। राजगृहे बालवाहनयोग्यः मेषः जिह्वालोलुपतया (ii) __________ प्रविश्य भोजनं खादति स्म। सूपकारः नित्यं ताडितं मेषं दृष्ट्वा (iii) __________ वानरान् राजभवनं त्यक्तुम् अकथयत्। (iv) __________ मदोद्धताः मर्कटाः तद् राजभवनं त्यक्तुं न स्वीकृतवन्तः। अन्यस्मिन् अहनि स मेषः (v) __________ अर्धज्वलितकाष्ठेन ताडितः। ज्वलन् स मेषः (vi) __________ प्रविष्टः। परिणामतः दग्धाः (vii) __________ प्राणत्राणाय अधावन्। राजा राजवैद्यम् आहूय अश्वरक्षायै न्यवेदयत्। भयत्रस्ताः कपयः गुरुजनोपदेशस्य अवधीरणातः (viii) __________ कृतवन्तः।

मञ्जूषा—

अश्वाः, वानरयूथपः, पश्चात्तापम्‌, अश्वशालाम्‌, रसनास्वादलुब्धाः, चन्द्रस्य, सूपकारेण, महानसम्‌।

Tags:#Class 10 Sanskrit#Sanskrit Board Exam 2025-26#Sanskrit Question Paper#Sanskrit Questions#प्रश्ननिर्माणम्#अन्वयः#भावार्थः#कथापूर्ति