प्रश्न 1 : अपठितावबोधनम् अपठित गद्यांश एवं प्रश्न
कक्षा 10 संस्कृत बोर्ड परीक्षा 2025–26 के लिए अपठित गद्यांश आधारित प्रश्नों का अभ्यास। इसमें एकपदेन, पूर्णवाक्येन, शीर्षक-लेखन तथा भाषिक-कार्य से संबंधित प्रश्न दिए गए हैं।
By SanskritLearn
📘 कक्षा 10 संस्कृत — बोर्ड परीक्षा प्रश्न 1 : अपठितावबोधनम् अपठित गद्यांश एवं प्रश्न
निर्देशः— अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत। (10 अङ्काः)
गद्यांशः
अयं संसारः जनानां कर्मभूमिः अस्ति। अस्मिन् संसारे यावन्तः जनाः जन्म गृह्णन्ति, तेषां पृथक् पृथक् कर्तव्यानि भवन्ति। एतानि कर्तव्यानि अनेकविधानि भवन्ति। कानिचित् व्यक्तिगतानि, कानिचित् पारिवारिकाणि, कानिचित् सामाजिकानि। कानिचित् नित्यानि भवन्ति, कानिचित् च नैमित्तिकानि। एतेषां सर्वेषां कर्तव्यानां पालनं मनुष्यस्य व्यक्तिगतहिताय, देशहिताय च परमावश्यकं भवति। परमद्य जनेषु कर्तव्यपालनं प्रति न कापि निष्ठा। कोऽपि श्रमेण सत्यतया निष्ठया च कार्यं कर्तुं न वाञ्छति। अल्पेन एव प्रयासेन ते कार्यसिद्धिम् इच्छन्ति। ते केवलं स्वार्थपूर्तिं कर्तुम् इच्छन्ति। अधिकाराय तु सर्वे प्रयतन्ते, परं कर्तव्यं प्रति कोऽपि ध्यानं न ददाति। सत्यमेतद् यावद् वयं परिश्रमपूर्वकं श्रद्धापूर्वकं च स्वकर्तव्यानि न पालयामः, तावद् देशस्य समाजस्य च उन्नतिः भवितुं न अर्हति। कर्तव्यपालनम् एव आत्मनः देशस्य च उन्नतेः मूलमन्त्रोऽस्ति।
प्रश्नाः
(अ) एकपदेन उत्तरत — (केवलं प्रश्नद्वयम्) 2 × 1 = 2
1 अयं संसारः केषां कर्मभूमिः अस्ति? 2 उन्नतेः मूलमन्त्रं किम् अस्ति? 3 जनाः किं विहाय केवलम् अधिकाराय प्रयतन्ते?
(आ) पूर्णवाक्येन उत्तरत — (केवलं प्रश्नद्वयम्) 2 × 2 = 4
1 देशस्य उन्नतिः कदा भवितुम् अर्हति? 2 कर्तव्यपालनं किमर्थम् आवश्यकम्? 3 अद्यत्वे जनाः कथं कार्यसिद्धिम् इच्छन्ति?
(इ) अस्य अनुच्छेदस्य कृते उपयुक्तं शीर्षकं संस्कृतेन लिखत। 1 × 1 = 1
(ई) यथानिर्देशम् उत्तरत — 3 × 1 = 3
1 ‘अयं संसारः कर्मभूमिः अस्ति।’ अस्मिन् वाक्ये क्रियापदं किम्? (क) अयम् (ख) संसारः (ग) कर्मभूमिः (घ) अस्ति 2 ‘प्रयत्नं कुर्वन्ति’ एतदर्थे किं क्रियापदं गद्यांशे प्रयुक्तम्? (क) प्रयतन्ते (ख) अर्हति (ग) इच्छन्ति (घ) भवन्ति 3 ‘प्रयासेन’ इति पदस्य किं विशेषणपदं गद्यांशे प्रयुक्तम्? (क) निष्ठा (ख) अल्पेन (ग) सत्यता (घ) श्रमेण