Script — Devanagari
कक्षा 9 संस्कृत शारदा पाठ 8 — अन्नाद् आनन्दं प्रति प्रश्नोत्तर
कक्षा 9 संस्कृत शारदा के अष्टम पाठ ‘अन्नाद् आनन्दं प्रति’ के अभ्यास 1 से 8 तक के प्रश्न एवं शुद्ध उत्तर सरल रूप में।
3 min read
📚 कक्षा 9 संस्कृत — शारदा अष्टमः पाठः — अन्नाद् आनन्दं प्रति अभ्यासः — प्रश्न 1 से 8 तक प्रश्नोत्तर
विषय: संस्कृत कक्षा: 9 पुस्तक: शारदा पाठ: अष्टमः — अन्नाद् आनन्दं प्रति
प्रश्न 1. एकेन पदेन रिक्तस्थानं पूरयत—
उदाहरणम्— अन्नेन शरीरं वर्धते।
(क) ............ अन्नेन ............ शरीरं वर्धते।
उत्तरम्— अन्नेन
(ख) ............ शरीरं प्रतिष्ठितम्।
उत्तरम्— प्राणे
(ग) ............ विना शरीरं क्रियाशून्यं भवति।
उत्तरम्— प्राणेन
(घ) ............ एव इमानि भूतानि जायन्ते।
उत्तरम्— अन्नात्
(ङ) ............ समस्तानि इन्द्रियाणि सञ्चाल्यन्ते।
उत्तरम्— मनसा
(च) ............ विना बोधशक्तेः तर्कशक्तेश्च विकासो न भवति।
उत्तरम्— बुद्धितत्त्वेन
(छ) ............ एव सर्वकर्मणः प्रवर्तकम्।
उत्तरम्— मनः
प्रश्न 2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत— (क) भृगुः जिज्ञासा कस्मिन् विषये आसीत्?
उत्तरम्— भृगोः जिज्ञासा ब्रह्मविषये आसीत्।
(ख) भृगुणा ब्रह्मज्ञानाय किम् आचरितम्?
उत्तरम्— भृगुणा ब्रह्मज्ञानाय कठोरं तपः आचरितम्।
(ग) भृगुः प्रथमं तपसा ब्रह्मरूपेण किं ज्ञातवान्?
उत्तरम्— भृगुः प्रथमं तपसा अन्नं वै ब्रह्म इति ज्ञातवान्।
(घ) मनसः के जायन्ते?
उत्तरम्— मनसः सङ्कल्पाः, भावाः विचाराश्च जायन्ते।
(ङ) प्राणिनः कस्मात् जायन्ते?
उत्तरम्— प्राणिनः अन्नात् जायन्ते।
(च) इन्द्रियाणि केन सञ्चाल्यन्ते?
उत्तरम्— इन्द्रियाणि मनसा सञ्चाल्यन्ते।
(छ) शरीरं कुत्र प्रतिष्ठितम् अस्ति?
उत्तरम्— शरीरं प्राणे प्रतिष्ठितम् अस्ति।
(ज) केन विना स्मृतिशक्तेर्विकासो न भवति?
उत्तरम्— बुद्धितत्त्वेन विना स्मृतिशक्तेर्विकासो न भवति।
(झ) भृगुः तपसा केषां महत्त्वं ज्ञातवान्?
उत्तरम्— भृगुः तपसा अन्नस्य, प्राणस्य, मनसः, विज्ञानस्य आनन्दस्य च महत्त्वं ज्ञातवान्।
प्रश्न 3. उदाहरणं दृष्ट्वा अधोलिखितेषु वाक्येषु किं सत्यम्, किम् असत्यम् इति रिक्तस्थाने पूरयत—
उदाहरणम्— प्रस्तुतॆ पाठे पितापुत्रयोः संवादः अस्ति। — सत्यम्
(क) प्रस्तुतॆ पाठे पितापुत्रयोः संवादः अस्ति।
उत्तरम्— सत्यम्।
(ख) अस्मिन् संवादे अन्नस्य महत्त्वं वर्णितम्।
उत्तरम्— सत्यम्।
(ग) प्राणिनः मनसः जायन्ते इति कथनम् अस्ति।
उत्तरम्— असत्यम्।
(घ) अन्नेन शरीरं वर्धते इति।
उत्तरम्— सत्यम्।
(ङ) मनः सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति।
उत्तरम्— सत्यम्।
(च) भृगुः वरुणस्य पुत्रोऽस्ति।
उत्तरम्— सत्यम्।
(छ) भृगुः तपसा मनो ब्रह्मरूपेण ज्ञातवान्।
उत्तरम्— सत्यम्।
(ज) विना योगे तृतीया विभक्तिर्भवति।
उत्तरम्— सत्यम्।
प्रश्न 4. क्रियापदेन सह समुचितं पदं योजयत— पदम् क्रियापदम् (क) प्राणिनः जायन्ते (ख) शरीरम् वर्धते (ग) तपः कुरुताम् (घ) पितरम् ब्रूते (ङ) यत्नः क्रियताम्
उत्तरम्— (क) प्राणिनः — जायन्ते (ख) शरीरम् — वर्धते (ग) तपः — कुरुताम् (घ) पितरम् — ब्रूते (ङ) यत्नः — क्रियताम्
प्रश्न 5. अधोलिखित-धातुरूपाणि पूरयत—
वृत् (वर्तने) धातु — लट् लकार, आत्मनेपद
पुरुष -एकवचन -द्विवचन -बहुवचन प्रथम पुरुष- वर्तते -वर्तेते -वर्तन्ते मध्यम पुरुष- -वर्तसे- वर्तेथे- वर्तध्वे उत्तम पुरुष- वर्ते- वर्तावहे -वर्तामहे
प्रश्न 6. एतानि पदानि लट्-लकारस्य त्रिषु पुरुषेषु रूपाणि पठत लिखत च—
लभते, जायते, भाषते, विद्यते, मोदते, सेवते, सहते, शोभते, यतते, वर्धते, मन्यते, घोटते, रोचते, कम्पते, याचते, सहते, स्पर्धते, लज्जते, क्षीयते।
उत्तरम्—
एतानि सर्वाणि आत्मनेपदी लट्-लकारस्य क्रियापदानि सन्ति। विद्यार्थिभिः एतेषां धातूनां प्रथमपुरुषे, मध्यमपुरुषे तथा उत्तमपुरुषे रूपाणि पठितव्यानि एवं लिखितव्यानि।
प्रश्न 7. आत्मनेपदिधातूनां लोट्-लकारे त्रिषु पुरुषेषु अभ्यासं कुरुत लिखत च— वन्द्-धातुः — लोट्-लकारः पुरुषः- एकवचनम्- द्विवचनम्- बहुवचनम् प्रथमपुरुषः- वन्दताम् -वन्देताम् -वन्दन्ताम् मध्यमपुरुषः- वन्दस्व -वन्देथाम् -वन्दध्वम् उत्तमपुरुषः- वन्दै -वन्दावहै -वन्दामहै
(1) मोद्-धातुः — लोट्-लकारः एकवचनम्- द्विवचनम् -बहुवचनम् मोदताम्- मोदेताम्- मोदन्ताम् मोदस्व -मोदेथाम् -मोदध्वम् मोदै -मोदावहै -मोदामहै (2) वर्ध्-धातुः — लोट्-लकारः एकवचनम्- द्विवचनम् -बहुवचनम् वर्धताम् -वर्धेताम् -वर्धन्ताम् वर्धस्व-- वर्धेथाम् -वर्धध्वम् वर्धै- वर्धावहै -वर्धामहै
🌿 पाठ-सार
“अन्नाद् आनन्दं प्रति” पाठ में भृगु और उनके पिता वरुण के संवाद के माध्यम से ब्रह्म के स्वरूप की खोज को प्रस्तुत किया गया है। भृगु तपस्या और चिन्तन के द्वारा क्रमशः अन्न, प्राण, मन, विज्ञान तथा आनन्द के महत्त्व को समझते हैं। पाठ विद्यार्थियों को तप, चिन्तन, योग, सदाचार तथा आत्मज्ञान की ओर प्रेरित करता है।
प्रश्न 8. कर्तृपदानुसार लोट्-लकारेण क्रियापदपरिवर्तनम्
निर्देशः — अधोलिखितवाक्येषु कर्तृपदानुसारं लोट्-लकारेण क्रियापदानि परिवर्तयत।
(क)
बालकः अन्यस्य निन्दां न कुरुते। भवान् — भवान् अन्यस्य निन्दां न कुरुताम्
(ख)
मम जीवने यशो वर्धते। तव — तव जीवने यशो वर्धताम्।
(ग)
अहं बौद्धिकविकासाय सदा योगासनं कुर्वे। त्वम् — त्वं बौद्धिकविकासाय सदा योगासनं कुरुस्व
(घ)
मेषः सर्वदा सत्यं भाषते। दिनेशः — दिनेशः सर्वदा सत्यं भाषताम्।
(ङ)
छात्रः लक्ष्यसिद्धये कष्टं सहते। अहम् — अहं लक्ष्यसिद्धये कष्टं सहे।
(च)
साधवः सर्वदा रमन्ते। भवन्तः — भवन्तः सर्वदा रमन्ताम्।
(छ)
भवान् योगेन आरोग्यं लभते। अहम् — अहं योगेन आरोग्यं लभै।
(ज)
रमा सदा सत्कर्मणि यतते। लता — लता सदा सत्कर्मणि यतताम्।
(झ)
भक्तः ईश्वरं वन्दते। त्वम् — त्वम् ईश्वरं वन्दस्व।
नोट: इस प्रश्न में कर्तृपद को दिए गए नए कर्तृपद से बदलकर क्रियापद को लोट्-लकार में परिवर्तित करना है। इसमें परस्मैपदी तथा आत्मनेपदी दोनों प्रकार के क्रियापदों का अभ्यास कराया गया है।