Script — Devanagari
कक्षा 9 संस्कृत पाठ 10 — णमो अरिहन्ताणम् प्रश्नोत्तर | Sharada Sanskrit
कक्षा 9 संस्कृत शारदा के दशम पाठ ‘णमो अरिहन्ताणम्’ के प्रश्न 1 से 5 तक शुद्ध संस्कृत प्रश्नोत्तर, समास, वाक्य-परिवर्तन और सन्धि सहित।
2 min read
कक्षा 9 संस्कृत — शारदा दशमः पाठः — णमो अरिहन्ताणम् अभ्यासः — प्रश्न 1 से 5 तक प्रश्नोत्तर विषय: संस्कृत कक्षा: 9 पाठ: दशमः — णमो अरिहन्ताणम् अभ्यास: अभ्यासाद् जायते सिद्धिः
- एकपदेन उत्तरं लिखत—
(क) ऋषभेण निर्मितस्य नगरस्य नाम किम्? उत्तरम्— विनिता। (ख) ऋषभस्य प्रसिद्धे द्वे कन्ये के? उत्तरम्— ब्राह्मी सुन्दरी च। (ग) कस्यां लिप्यां नैकानि शास्त्राणि लिपिबद्धानि? उत्तरम्— ब्राह्मीलिप्याम्। (घ) विनिता नामकं राज्यं ऋषभः कस्मै समर्पितवान्? उत्तरम्— भरताय। (ङ) ऋषभः बाहुबलिने किं राज्यं प्रदत्तवान्? उत्तरम्— तक्षशिलाम्। (च) प्रजाः भिक्षायां कानि वस्तूनि यच्छन्ति स्म? उत्तरम्— आभरणानि अनर्घवस्तूनि च।
- पूर्णवाक्येन प्रश्नानाम् उत्तराणि लिखत—
(क) देशे काः समस्याः सन्ति इति ऋषभदेवस्य कल्पना प्राप्ता? उत्तरम्— जनानाम् आलस्यं, कृषिकार्ये न्यूनता, प्रजासु उत्पादनक्षमतायाः अभावः च इति एतादृश्याः अनेकाः समस्याः सन्ति इति ऋषभदेवस्य कल्पना प्राप्ता। (ख) महाराजः केषु कार्येषु प्रजाः प्रशिक्षितवान्? उत्तरम्— महाराजः कृषिकार्यं, विविधपदार्थैः भोजननिर्माणं, तन्तुभिः वस्त्रनिर्माणं, गवाम् अश्वादीनां पशूनां पालनम् इत्यादीनि जीवनकौशलानि, काष्ठैः धातुभिः शिलाभिः च गृहोपयोगिनां वस्तूनां निर्माणं, पात्रनिर्माणं, गृहनिर्माणं, नगरनिर्माणादिकं च प्रजाः प्रशिक्षितवान्। (ग) ऋषभदेवस्य जीवनपरिवर्तिनी घटना का आसीत्? उत्तरम्— एकदा राजप्रासादे नृत्यकलां प्रदर्शयन्ती काचित् नर्तकी सहसा मरणं प्राप्तवती। अनया घटनया ऋषभदेवस्य मनः विक्षुब्धम् अभवत्। एषा घटना तस्य जीवनपरिवर्तिनी घटना आसीत्। (घ) ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः कथम् अभवत्? उत्तरम्— ऋषभदेवस्य प्रपौत्रः श्रेयांसः ऋषभदेवाय पानार्थम् इक्षुरसं दत्तवान्। अनेन ऋषभदेवस्य दीर्घकालिकस्य उपवासस्य समाप्तिः अभवत्। (ङ) ऋषभदेवः कदा कुत्र च केवलज्ञानं प्राप्तवान्? उत्तरम्— ऋषभदेवः फाल्गुनमासस्य कृष्णपक्षे एकादश्यां तिथौ प्रयागराजे अक्षयवटवृक्षस्य अधः केवलज्ञानं प्राप्तवान्। (च) जनानां मार्गदर्शनार्थं कं क्रमं रचितवान्? उत्तरम्— ऋषभदेवः जनानां मार्गदर्शनार्थं भिक्षुः, भिक्षुणी, श्रावकः, श्राविका इति क्रमं रचितवान्।
- समस्तपदानि लिखत—
क्र. विग्रहवाक्यम् समस्तपदम् (क) महान् च असौ राजा च महाराजः (ख) प्रजानां सुखम् प्रजासुखम् (ग) मूलाः समस्याः मूलसमस्याः (घ) भोजनस्य निर्माणम् भोजननिर्माणम् (ङ) आर्थिकी स्थितिः आर्थिकस्थितिः (च) प्राप्तः आनन्दः येन सः प्राप्तानन्दः (छ) विधिना लिखितम् विधिलिखितम् (ज) गृहं गृहं प्रति प्रतिगृहम् (झ) ब्राह्मीनामा लिपिः ब्राह्मीलिपिः
- वाक्यानि उदाहरणानुसारं परिवर्तयत—
यथा— जनैः स्वयमेव निर्माणकार्यम् आरब्धम्। उत्तरम्— जनाः स्वयमेव निर्माणकार्यम् आरब्धवन्तः। (क) महाराजेन राज्यं समर्पितम्। उत्तरम्— महाराजः राज्यं समर्पितवान्। (ख) केनापि तत् न चिन्तितम्। उत्तरम्— कश्चित् अपि तत् न चिन्तितवान्। (ग) ऋषभदेवेन दीर्घकालिकः उपवासः कृतः। उत्तरम्— ऋषभदेवः दीर्घकालिकम् उपवासं कृतवान्। (घ) जनैः जीवनपद्धतिः परिवर्तिता। उत्तरम्— जनाः जीवनपद्धतिं परिवर्तितवन्तः। (ङ) ऋषभेण योजना कृता। उत्तरम्— ऋषभः योजनां कृतवान्।
- सन्धिं कुरुत—
(क) इति + अतः उत्तरम्— इत्यतः। (ख) च + इति उत्तरम्— चेति। (ग) देवस्य + अपि उत्तरम्— देवस्यापि। (घ) तथा + एव उत्तरम्— तथैव। (ङ) इति + एतादृशाः उत्तरम्— इत्येतादृशाः। (च) ब्राह्मीद्वारा + एव उत्तरम्— ब्राह्मीद्वारैव। (छ) प्रस्थितः + अयम् उत्तरम्— प्रस्थितोऽयम्।
पाठ का संक्षिप्त परिचय ‘णमो अरिहन्ताणम्’ पाठ में प्रथम तीर्थङ्कर भगवान् ऋषभदेव के जीवन, उनके शासन-कौशल, जनकल्याणकारी कार्यों, वैराग्य, दीर्घकालिक उपवास तथा केवलज्ञान-प्राप्ति का वर्णन किया गया है। पाठ में परिश्रम, जीवन-कौशल, आत्मसंयम और आध्यात्मिक उन्नति का महत्त्व बताया गया है।