Chapter three se sari exercise
Question · asked by Ananya
Can you send me chapter three se sari exercise for my exam preparation.
Answer · SanskritLearn team · 30 Oct 2026
कक्षा 9 संस्कृत — शारदा तृतीयः पाठः — आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
अभ्यासः — अभ्यासाद् जायते सिद्धिः
1. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत।
(क) मातामही कस्य कथां श्रावितवती? उत्तरम्— मातामही नामदेवमहाराजस्य कथां श्रावितवती।
(ख) नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान्?
उत्तरम्— नामदेवस्य गुरुः विसोबा नामदेवं अध्यापितवान् यत् ईश्वरः सर्वेषु भूतेषु निवसति।
(ग) नामदेवः कया भावनया धावनं कृतवान्?
उत्तरम्— नामदेवः करुणया (दयाभावनया) धावनं कृतवान्।
(घ) बालकयोः मुखे किमर्थं म्लाने सञ्जाते?
उत्तरम्— बालकयोः मुखे अपराधभावनया म्लाने सञ्जाते।
(ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ?
उत्तरम्— कपिलः माधवी च कदापि प्राणिनां हिंसां न करिष्यावः इति सङ्कल्पं कृतवन्तौ।
(च) ‘तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ’ इति वाक्ये ‘तम्’ इति सर्वनामशब्दः कस्य कृते प्रयुक्तः?
उत्तरम्— ‘तम्’ इति सर्वनामशब्दः शुनकस्य कृते प्रयुक्तः।
(छ) कपिलः माधवी च कुत्र गतवन्तौ?
उत्तरम्— कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ।
(ज) ‘मातामही तं प्रसङ्गं दृष्टवती, तौ आहूतवती च’ इति वाक्ये ‘तौ’ इति शब्दः कस्यां विभक्तौ अस्ति?
उत्तरम्— ‘तौ’ इति शब्दः द्वितीया विभक्तौ द्विवचने अस्ति।
---
- अधोलिखितानि वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत।
यथा— नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गच्छति।
उत्तरम्— नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गतवान्।
(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति।
उत्तरम्— नैवेद्यं विग्रहस्य पुरतः स्थापितवान्।
(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति।
उत्तरम्— नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्।
(ग) गुरुः विसोबा तम् अध्यापयति।
उत्तरम्— गुरुः विसोबा तम् अध्यापितवान्।
(घ) अहं शृणोमि।
उत्तरम्— अहं श्रुतवान्।
(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति।
उत्तरम्— सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः।
(च) नामदेवः शुनकस्य पृष्ठे अनुधावति।
उत्तरम्— नामदेवः शुनकस्य पृष्ठे अनुधावितवान्।
---
3. कः / का, कं / कां प्रति कथयति?
(क) कथां श्रोतुम् इच्छतः वा?
उत्तरम्—
- कः / का — मातामही।
- कं / कां प्रति — कपिलं माधवीं च।
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति।
उत्तरम्—
- कः / का — माधवी।
- कं / कां प्रति — मातामहीम्।
(ग) किं देवेन सह अपि मित्रता सम्भवति?
उत्तरम्—
- कः / का — कपिलः।
- कं / कां प्रति — मातामहीम्।
(घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु।
उत्तरम्—
- कः / का — विसोबा गुरुः।
- कं / कां प्रति — नामदेवम्।
(ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।
उत्तरम्—
- कः / का — नामदेवः।
- कं / कां प्रति — देवम् (पाण्डुरङ्गम्)।
(च) धिक् शुनकम्।
उत्तरम्—
- कः / का — कपिलः।
- कं / कां प्रति — मातामहीम्।
(छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु?
उत्तरम्—
- कः / का — माधवी।
- कं / कां प्रति — कपिलं मातामहीं च।
(ज) किं घृतपात्रम् आधृत्य?
उत्तरम्—
- कः / का — कपिलः माधवी च।
- कं / कां प्रति — मातामहीम्।
(झ) अद्य अहं ज्ञातवान् यत् सर्वेषु ईश्वरः निवसति इति।
उत्तरम्—
- कः / का — कपिलः।
- कं / कां प्रति — मातामहीम्।
(ञ) उत्तीर्णः भवान् परीक्षाम्।
उत्तरम्—
- कः / का — पाण्डुरङ्गः।
- कं / कां प्रति — नामदेवम्।
---
- रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत।
(क) देवः नामदेवं परितः भवति स्म।
उत्तरम्— देवः कं परितः भवति स्म?
(ख) ईश्वरः सर्वेषु भूतेषु निवसति।
उत्तरम्— ईश्वरः केषु निवसति?
(ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्।
उत्तरम्— शुनकः आगत्य कुत्र रोटिकां धृत्वा धावितवान्?
(घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
उत्तरम्— शुनकस्य स्थाने कः आविर्भूतवान्?
(ङ) आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः।
उत्तरम्— आत्मवत् सर्वभूतेषु यः पश्यति सः कः?
---
- घटनाक्रमानुसारं लिखत।
नामदेवमहाराजस्य कथायाः घटनाः उचितक्रमेण लिखत।
उत्तरम्—
- नामदेवः मन्दिरं गतवान्।
- नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
- नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
- शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
- नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
- शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
---
- कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत।
उत्तराणि—
- क्षीरेण
- शर्करया
- आपणं
- आपणं
- शर्कराम्
- मधुरेण
- पायसं
- अन्यान् मधुरपदार्थान्
- तेन
- पायसेन
उपपदविभक्तयः—
- सह — तृतीया विभक्तिः।
- विना — द्वितीया / तृतीया विभक्तिः।
- प्रति — द्वितीया विभक्तिः।
- निकषा — द्वितीया विभक्तिः।
- परितः — द्वितीया विभक्तिः।
- धिक् — द्वितीया विभक्तिः।
---
- क्तवतु-प्रत्ययान्तरूपं योजयित्वा पुनः लिखत।
| मूलरूपम् | क्तवतु-प्रत्ययरूपम् |
|---|---|
| अददात् | दत्तवान् / दत्तवती |
| अजीवन् | जीवितवन्तः |
| अकरोत् | कृतवान् |
| अकुर्वन् | कृतवन्तः |
| अपूजयन् | पूजितवन्तः |
| अक्षिपत् | क्षिप्तवान् |
| अक्षिपन् | क्षिप्तवन्तः |
| अम्रियन्त | मृतवन्तः |
| अभवन् | /भवितवन्त: |
| अवदत् | उक्तवान् / उक्तवती |
| अरोपयत् | आरोपितवान् / आरोपितवती |
| अशोधयन् | शोधितवन्तः |
---
8. एतेषां समस्तपदानि पाठात् चित्वा लिखत।
| विग्रहवाक्यम् | समस्तपदम् |
|---|---|
| यथा— महान् आत्मा, तेषाम् | महात्मनाम् |
| (क) घृतस्य पात्रम्, तत् | घृतपात्रम् |
| (ख) पाषाणस्य खण्डः, तम् | पाषाणखण्डम् |
| (ग) प्रियः सुहृत् | प्रियसुहृत् |
| (घ) उदरे वेदना | उदरवेदना |
| (ङ) स्वीयः व्यवहारः | स्वीयव्यवहारः |
| (च) जीवनस्य मूल्यानि | जीवनमूल्यानि |
| (छ) मातुलस्य गृहम्, तत् | मातुलगृहम् |
| (ज) नरेषु रत्नानि इव, तेषाम् | नररत्नानाम् |
| (झ) स्वीयं कर्तृत्वम्, तेन | स्वकर्तृत्वेन |
| (ञ) अपराधस्य भावना, तया | अपराधभावनया |
| (ट) गुरोः उपदेशः, तम् | गुरूपदेशम् |
| (ठ) दिने दिने | प्रतिदिनम् |
| (ड) राजा ऋषिः इव, तेषाम् | राजर्षीणाम् |
---
महत्वपूर्ण शब्दार्थाः
| संस्कृत शब्दः | हिन्दी अर्थः |
|---|---|
| अनुधावितवान् | पीछे दौड़ा |
| अपहृत्य | चुराकर |
| आविर्भूतवान् | प्रकट हुआ |
| करुणया | दया से |
| घृतम् | घी |
| नैवेद्यम् | भगवान को अर्पित भोग |
| निमील्य | बन्द करके |
| पाषाणखण्डम् | पत्थर का टुकड़ा |
| बुभुक्षितः | भूखा |
| भक्षितवान् | खाया |
| मातुलः | मामा |
| मातामही | नानी |
| म्लाने | मुरझाए हुए |
| सुहृत् | मित्र |
| प्रसवित्री | जन्म देने वाली |
| ऋजुता | सरलता |
---
पाठ की शिक्षा
आत्मवत् सर्वभूतेषु यः पश्यति सः पण्डितः।
अर्थात् जो मनुष्य सभी प्राणियों में अपने समान आत्मा का दर्शन करता है, वही सच्चा ज्ञानी है। हमें सभी जीवों के प्रति दया, प्रेम और करुणा का भाव रखना चाहिए।
---
*
Have a similar doubt?
Ask your question